Friday, 17 July 2020

मनुस्मृति (यू.जी.सी/नेट)

यू.जी.सी/नेट परीक्षा में मनुस्मृति से पूछे जाने वाले प्रमुख श्लोक

प्रथम, द्वितीय तथा सप्तमोऽध्याय

 

आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् 

अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः  ॥ १.५ ॥

 

ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् 

महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः  ॥ १.६ ॥

 

अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ १.८ ॥

 

आपो नारा इति प्रोक्ता आपो वै नरसूनवः 

ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः  ॥ १.१० ॥

 

लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः 

ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥ १.३१ ॥

 

मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् 

प्रचेतसं वसिष्ठं च भृगुं नारदमेव च  ॥ १.३५ ॥

ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः  ॥ १.४६ ॥

अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः 

पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः  ॥ १.४७ ॥

गुच्छगुल्मं तु विविधं तथैव तृणजातयः 

बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च  ॥ १.४८ ॥

इदं शास्त्रं तु कृत्वासौ मामेव स्वयमादितः 

विधिवद्ग्राहयामास मरीच्यादींस्त्वहं मुनीन्  ॥ १.५८ ॥

एतद्वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेसतः 

एतद्धि मत्तोऽधिजगे सर्वमेषोऽखिलं मुनिः  ॥ १.५९ ॥

स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा 

चाक्षुषश्च महातेजा विवस्वत्सुत एव च  ॥ १.६२ ॥

निमेषा दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कला 

त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः  ॥ १.६४ ॥

पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः 

कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी  ॥ १.६६ ॥

दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः 

अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम्  ॥ १.६७ ॥

चत्वार्याहुः सहस्राणि वर्साणां तत्कृतं युगम् 

तस्य तावच्छती संध्या संध्यांशश्च तथाविधः  ॥ १.६९ ॥

इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु 

एकापायेन वर्तन्ते सहस्राणि शतानि च   ॥ १.७० ॥

यदेतत्परिसंख्यातमादावेव चतुर्युगम् 

एतद्द्वादशसाहस्रं देवानां युगमुच्यते  ॥ १.७१ ॥

दैविकानां युगानां तु सहस्रं परिसंख्यया 

ब्राह्ममेकमहर्ज्ञेयं तावतीं रात्रिमेव च  ॥ १.७२ ॥

तद्वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः 

रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः  ॥ १.७३ ॥

यद्प्राग्द्वादशसाहस्रमुदितं दैविकं युगम् 

तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते  ॥ १.७९ ॥

चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे 

अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः 

कृते त्रेतादिषु ह्येषामायुर्ह्रसति पादशः  ॥ १.८३ ॥

तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते 

द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे  ॥ १.८६ ॥

दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥ १.८८ ॥

प्रजानां रक्षणं दानमिज्याध्ययनमेव च 

विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः  ॥ १.८९ ॥

पशूनां रक्षणं दानमिज्याध्ययनमेव च 

वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च  ॥ १.९० ॥

एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् ।

एतेषामेव वर्णानां शुश्रूषामनसूयया  ॥ १.९१ ॥

हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये  ॥ १.९४ ॥

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः 

बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः  ॥ १.९६ ॥

ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः 

कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः  ॥ १.९७ ॥

उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती 

तस्य कर्मविवेकार्थं शेषाणामनुपूर्वशः 

स्वायंभुवो मनुर्धीमानिदं शास्त्रमकल्पयत् ॥ १.१०२ ॥

आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च 

तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः  ॥ १.१०८ ॥

संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः 

व्रतानि यमधर्माश्च सर्वे संकल्पजाः स्मृताः  ॥ २.३ ॥

वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम्  

आचारश्चैव साधूनामात्मनस्तुष्टिरेव च  ॥ २.६ ॥

श्रु+तिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः 

ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ  ॥ २.१० ॥

योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्द्विजः 

स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः  ॥ २.११ ॥

वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः 

एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम्  ॥ २.१२ ॥

श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ 

उभावपि हि तौ धर्मौ सम्यगुक्तौ मनीषिभिः  ॥ २.१४ ॥

सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम् 

तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते  ॥ २.१७ ॥

तस्मिन् देशे य आचारः पारम्पर्यक्रमागतः 

वर्णानां सान्तरालानां स सदाचार उच्यते  ॥ २.१८ ॥

कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः 

एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः  ॥ २.१९ ॥

एतद्देशप्रसूतस्य सकाशादग्रजन्मनः 

स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः  ॥ २.२० ॥

हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि 

प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः  ॥ २.२१ ॥

आ समुद्रात्तु वै पूर्वादा समुद्राच्च पश्चिमात् ।

तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः  ॥ २.२२ ॥

कृष्णसारस्तु चरति मृगो यत्र स्वभावतः 

स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्त्वतः परः  ॥ २.२३ ॥

एताण्द्विजातयो देशान् संश्रयेरन् प्रयत्नतः 

शूद्रस्तु यस्मिन् कस्मिन् वा निवसेद्वृत्तिकर्शितः  ॥ २.२४ ॥

प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते 

मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम्  ॥ २.२९ ॥

नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत् ।

पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते  ॥ २.३० ॥

मङ्गल्यं ब्राह्मणस्य स्यात्क्षत्रियस्य बलान्वितम् 

वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम्  ॥ २.३१ ॥

शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् 

वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम्  ॥ २.३२ ॥

स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोहरम् 

मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ॥ २.३३ ॥

चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् ।

षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले  ॥ २.३४ ॥

चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः 

प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥ २.३५ ॥

गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् 

गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः  ॥ २.३६ ॥

ब्रह्मवर्चसकामस्य कार्यो विप्रस्य पञ्चमे 

राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे  ॥ २.३७ ॥

आ षोडाशाद्ब्राह्मणस्य सावित्री नातिवर्तते 

आ द्वाविंशात्क्षत्रबन्धोरा चतुर्विंशतेर्विशः  ॥ २.३८ ॥

कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः 

वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च  ॥ २.४१ ॥

मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला 

क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी  ॥ २.४२ ॥

ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ 

पैलवाउदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः  ॥ २.४५ ॥

केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः 

ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः  ॥ २.४६ ॥

भवत्पूर्वं चरेद्भैक्षमुपनीतो द्विजोत्तमः 

भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम्  ॥ २.४९ ॥

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः 

श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः  ॥ २.५२ ॥

ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् ।

कायत्रैदशिकाभ्यां वा न पित्र्येण कदा चन  ॥ २.५८ ॥

अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते 

कायमङ्गुलिमूलेऽग्रे देवं पित्र्यं तयोरधः  ॥ २.५९ ॥

केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते 

राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके मतः  ॥ २.६५ ॥

अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः 

संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम्  ॥ २.६६ ॥

एकाक्षरं परं ब्रह्म प्राणायामः परं तपः 

सावित्र्यास्तु परं नास्ति मौनात्सत्यं विशिष्यते  ॥ २.८३ ॥

आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः 

आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मतः  ॥ २.१०९ ॥

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः 

चत्वारि तस्य वर्धन्ते आयुर्धर्मो यशो बलम्  ॥ २.१२१ ॥

ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम् 

पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता  ॥ २.१३५ ॥

उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः 

सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते  ॥ २.१४० ॥

एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः 

योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते  ॥ २.१४१ ॥

निषेकादीनि कर्माणि यः करोति यथाविधि 

संभावयति चान्नेन स विप्रो गुरुरुच्यते  ॥ २.१४२ ॥

अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् 

यः करोति वृतो यस्य स तस्य र्त्विगिहोच्यते  ॥ २.१४३ ॥

उपाध्यायान् दशाचार्य आचार्याणां शतं पिता 

सहस्रं तु पितॄन्माता गौरवेणातिरिच्यते  ॥ २.१४५ ॥

उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता 

ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम्  ॥ २.१४६ ॥

विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः 

वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः  ॥ २.१५५ ॥

मुण्डो वा जटिलो वा स्यादथ वा स्याच्छिखाजटः 

पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः 

गुरुराहवनीयस्तु साग्नित्रेता गरीयसी  ॥ २.२३१ ॥

इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च 

चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः  ॥ ७.४ ॥

स्वराष्ट्रे न्यायवृत्तः स्याद्भृशदण्डश्च शत्रुषु 

सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः  ॥ ७.३२ ॥

दश कामसमुत्थानि तथाष्टौ क्रोधजानि च 

व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥ ७.४५ ॥

कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः 

वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु  ॥ ७.४६ ॥

मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः 

तौर्यत्रिकं वृथाट्या च कामजो दशको गणः  ॥ ७.४७ ॥

पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् 

वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः  ॥ ७.४८ ॥

द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः 

तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ  ॥ ७.४९ ॥

मौलाञ्शास्त्रविदः शूरांल्लब्धलक्षान् कुलोद्भवान् 

सचिवान् सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान्  ॥ ७.५४ ॥

अनुरक्तः शुचिर्दक्षः स्मृतिमान् देशकालवित् ।

वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते  ॥ ७.६४ ॥

धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव वा 

नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत्पुरम्  ॥ ७.७० ॥

सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् ।

एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते  ॥ ७.७१ ॥

पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः 

धान्यानामष्टमो भागः षष्ठो द्वादश एव वा  ॥ ७.१३०[१३१ ]

आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् 

गन्धौषधिरसानां च पुष्पमूलफलस्य च  ॥ ७.१३१[१३२ ]

पत्रशाकतृणानां च चर्मणां वैदलस्य च 

मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च  ॥ ७.१३२[१३३ ]

म्रियमाणोऽप्याददीत न राजा श्रोत्रियात्करम् 

न च क्षुधास्य संसीदेच्छ्रोत्रियो विषये वसन्  ॥ ७.१३३[१३४ ]

कारुकाञ्शिल्पिनश्चैव शूद्रांस्चात्मोपजीविनः 

एकैकं कारयेत्कर्म मासि मासि महीपतिः  ॥ ७.१३८[१३९ ]

क्षत्रियस्य परो धर्मः प्राजानामेव पालनम् 

निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते  ॥ ७.१४४[१४५ ]

कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः 

अनुरागापरागौ च प्रचारं मण्डलस्य च  ॥ ७.१५४[१५५ ]

मध्यमस्य प्रचारं च विजीगिषोश्च चेष्टितम् 

उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः  ॥ ७.१५५[१५६ ]

एताः प्रकृतयो मूलं मण्डलस्य समासतः 

अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः  ॥ ७.१५६[१५७ ]

अमात्यराष्ट्रदुर्गार्थ- दण्डाख्याः पञ्च चापराः 

प्रत्येकं कथिता ह्येताः संक्षेपेण द्विसप्ततिः  ॥ ७.१५७[१५८ ]

अनन्तरमरिं विद्यादरिसेविनमेव च 

अरेरनन्तरं मित्रमुदासीनं तयोः परम्  ॥ ७.१५८[१५९ ]

संधिं च विग्रहं चैव यानमासनमेव च 

/द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा  ॥ ७.१६०[१६१ ]


No comments:

Post a Comment

बौद्धदर्शन (सर्वदर्शनसङ्ग्रह)

  ·         व्याप्ति का ज्ञान तादात्म्य और उत्पत्ति से होता है। ·         तादात्म्य तथा उत्पत्ति अविनाभाव के दो रूप हैं। ·         ताद...