Friday, 17 July 2020

याज्ञवल्क्य स्मृति

याज्ञवल्क्य स्मृति

१.    याज्ञवल्क्य स्मृति में लगभग १००० श्लोक है।

२.     याज्ञवल्क्य स्मृति में तीन अध्याय है- आचाराध्याय-३६७, व्यवहाराध्याय-३०७-तथा प्रायश्चित अध्याय-३३५

३.    श्लोकसंख्या- आचाराध्याय-३६७,

    व्यवहाराध्याय-३०७-

    प्रायश्चित अध्याय-३३५

४.    प्रकरण- आचाराध्याय- १३

व्यवहाराध्याय- २५

प्रायश्चित अध्याय-५

५.    ऋण ४ प्रकार के होते हैं- व्यवहार, धर्म, नीति, देशाचार

६.    दिव्य प्रमाण ५ प्रकार- तुला, अग्नि, जल, विष, कोश

७.    पुत्र के १२ प्रकार- औरस, पुत्रिकासुत, गूढज, कानीन, पौनर्भव, दत्तकपुत्र, विक्रीत, दत्तात्मा, सहोढज, कृत्रिम, क्षेत्रज, अपविद्धपुत्र

८.    सीमा के ५ प्रकार- ध्वजिनी, मत्स्यिनी, नैधानी, भयवर्जिताराजशासननीता

९.    सीमा स्थान- जनपदसीमा, ग्राम सीमा, क्षेत्रसीमा, गृहसीमा

१०.          दण्डव्यवस्था-

पशु

फसल खाने पर

फसल खाकर बैठ जाने पर

बच्चों के साथ फसल नष्ट करने पर

गधा, ऊँट, भैंस

८ माष

१६ माष

३२ माष

गाय

४ माष

८ माष

१६ माष

बकरी

२ माष

४ माष

८ माष

 

११.           

 

[. साधारणव्यवहारमातृकाप्रकरणम्]

 

सभ्याः पृथक्पृथग्दण्ड्याविवादाद्द्विगुणं दमम्  .

 

चतुष्पाद्व्यवहारोऽयं विवादेषूपदर्शितः  .

व्यवहार के चतुष्पाद है। १.भाषापाद, २.उत्तरपाद, ३. क्रियापाद, ४.सिद्धिपाद

 

 

[. असाधारणव्यवहारमातृकाप्रकरणम्]

 

मिथ्याभियोगी द्विगुणमभियोगाद्धनंवहेत् .११

 

स्मृत्योर्विरोधे न्यायस्तुबलवान् व्यवहारतः 

अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमितिस्थितिः  .२१

 

प्रमाणं लिखितंभुक्तिः साक्षिणश्चेति कीर्तितम् 

एषामन्यतमाभावे दिव्यान्यतममुच्यते  .२२

 

सर्वेष्वर्थविवादेषु बलवत्युत्तराक्रिया 

आधौ प्रतिग्रहेक्रीते पूर्वा तु बलवत्तरा  .२३

 

पश्यतोऽब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी 

परेण भुज्यमानायाधनस्य दशवार्षिकी  .२४

 

आगमोऽभ्यधिको भोगाद्विनापूर्वक्रमागतात्

आगमेऽपि बलंनैव भुक्तिः स्तोकापि यत्र नो  .२७

 

आगमस्तु कृतोयेन सोऽभियुक्तस्तमुद्धरेत्

तत्सुतस्तत्सुतोवा भुक्तिस्तत्र गरीयसी  .२८

 

नृपेणाधिकृताः पूगाःश्रेणयोऽथ कुलानि  

पूर्वं पूर्वंगुरु ज्ञेयं व्यवहारविधौ नृणाम्  .३०

 

मत्तोन्मत्तार्तव्यसनि- बालभीतादियोजितः 

असंबद्धकृतश्चैव व्यवहारो सिध्यति  .३२

 

राजा लब्ध्वानिधिं दद्याद्द्विजेभ्योऽर्धं द्विजःपुनः 

विद्वानशेषमादद्यात्स सर्वस्यप्रभुर्यतः  .३४

 

इतरेण निधौलब्धे राजा षष्ठांशमाहरेत्

अनिवेदितविज्ञातो दाप्यस्तंदण्डमेव   .३५

 

[. ऋणादानप्रकरणम्]

 

अशीतिभागो वृद्धिःस्यान्मासि मासि सबन्धके 

वर्णक्रमाच्छतं द्वित्रि- चतुष्पञ्चकमन्यथा  .३७

 

कान्तारगास्तु दशकंसामुद्रा विंशकं शतम् 

 

संततिस्तु पशुस्त्रीणांरसस्याष्टगुणा परा 

वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणापरा  .३९

 

राज्ञाधमर्णिको दाप्यःसाधिताद्दशकं शतम् 

पञ्चकं शतं दाप्यः प्राप्तार्थोह्युत्तमर्णिकः  .४२

 

संततिः स्त्रीपशुष्वेवधान्यं त्रिगुणमेव  

वस्त्रं चतुर्गुणंप्रोक्तं रसश्चाष्टगुणस्तथा  .५७

 

[. साक्षिप्रकरणम्]

 

तपस्विनो दानशीलाःकुलीनाः सत्यवादिनः 

धर्मप्रधाना ऋजवःपुत्रवन्तो धनान्विताः  .६८

 

त्र्यवराः साक्षिणोज्ञेयाः श्रौतस्मार्तक्रियापराः 

यथाजाति यथावर्णंसर्वे सर्वेषु वा स्मृताः  .६९

 

उभयानुमतः साक्षीभवत्येकोऽपि धर्मवित्

सर्वः साक्षीसंग्रहणे चौर्यपारुष्यसाहसे  .७२

 

अब्रुवन् हिनरः साक्ष्यमृणं सदशबन्धकम् 

राज्ञा सर्वंप्रदाप्यः स्यात्षट्चत्वारिंशकेऽहनि  .७६

 

पृथक्पृथग्दण्डनीयाः कूटकृत्साक्षिणस्तथा 

विवादाद्द्विगुणं दण्डंविवास्यो ब्राह्मणः स्मृतः  .८१

 

यः साक्ष्यंश्रावितोऽन्येभ्यो निह्नुते तत्तमोवृतः 

दाप्योऽष्टगुणंदण्डं ब्राह्मणं तु विवासयेत् .८२

 

[. लेख्यप्रकरणम्]

 

यः कश्चिदर्थोनिष्णातः स्वरुच्या तु परस्परम् 

लेख्यं तुसाक्षिमत्कार्यं तस्मिन् धनिकपूर्वकम्  .८४

 

समामासतदर्धाहर्नामजातिस्वगोत्रकैः 

सब्रह्मचारिकात्मीय- पितृनामादिचिह्नितम्  .८५

 

समाप्तेऽर्थे ऋणीनाम स्वहस्तेन निवेशयेत्

मतं मेऽमुकपुत्रस्ययदत्रोपरि लेखितम्  .८६

 

साक्षिणश्च स्वहस्तेनपितृनामकपूर्वकम् 

अत्राहममुकः साक्षीलिखेयुरिति ते समाः  .८७

 

उभयाभ्यर्थितेनैतन्मया ह्यमुकसूनुना 

लिखितं ह्यमुकेनेतिलेखकोऽन्ते ततो लिखेत् .८८

 

विनापि साक्षिभिर्लेख्यंस्वहस्तलिखितं तु यत्

तत्प्रमाणं स्मृतंलेख्यं बलोपधिकृतादृते  .८९

 

ऋणं लेख्यकृतंदेयं पुरुषैस्त्रिभिरेव तु 

आधिस्तु भुज्यतेतावद्यावत्तन्न प्रदीयते  .९०

 

[. दिव्यप्रकरणम्]

 

तुला स्त्रीबालवृद्धान्ध- पङ्गुब्राह्मणरोगिणाम् 

अग्निर्जलं वाशूद्रस्य यवाः सप्त विषस्य वा  .९८

 

अर्वाक्चतुर्दशादह्नो यस्यनो राजदैविकम् 

व्यसनं जायतेघोरं शुद्धः स्यान्न संशयः  .११३

 

[१०. स्वामिपालविवादप्रकरणम्]

 

माषानष्टौ तुमहिषी सस्यघातस्य कारिणी 

दण्डनीया तदर्धंतु गौस्तदर्धमजाविकम्  .१५९

 

भक्षयित्वोपविष्टानां यथोक्ताद्द्विगुणोदमः 

सममेषां विवीतेऽपिखरोष्ट्रं महिषीसमम्  .१६०

पालदोषविनाशे तुपाले दण्डो विधीयते 

अर्धत्रयोदशपणः स्वामिनोद्रव्यमेव   .१६५

 

[११. अस्वामिविक्रयप्रकरणम्]

 

हृतं प्रनष्टंयो द्रव्यं परहस्तादवाप्नुयात्

अनिवेद्य नृपेदण्ड्यः तु षण्णवतिं पणान्  .१७२

 

पणानेकशफे दद्याच्चतुरःपञ्च मानुषे 

महिषोष्ट्रगवां द्वौद्वौ पादं पादमजाविके  .१७४

 

[१२. दत्ताप्रदानिकप्रकरणम्]

 

स्वं कुटुम्बाविरोधेनदेयं दारसुतादृते 

नान्वये सतिसर्वस्वं यच्चान्यस्मै प्रतिश्रुतम्  .१७५

 

[१३. क्रीतानुशयप्रकरणम्]

अग्नौ सुवर्णमक्षीणंरजते द्विपलं शते 

अष्टौ त्रपुणिसीसे ताम्रे पञ्च दशायसि  .१७८

 

शते दशपलावृद्धिरौर्णे कार्पाससौत्रिके 

मध्ये पञ्चपलावृद्धिः सूक्ष्मे तु त्रिपला मता  .१७९

 

कार्मिके रोमबद्धे त्रिंशद्भागः क्षयो मतः 

क्षयो वृद्धिश्च कौशेये वाल्कलेषु   .१८०

 

[१४. अभ्युपेत्याशुश्रूषाप्रकरणम्]

 

प्रव्रज्यावसितो राज्ञोदास आमरणान्तिकम् 

वर्णानामानुलोम्येन दास्यं प्रतिलोमतः  .१८३

 

[१५. संविद्व्यतिक्रमप्रकरणम्]

 

यस्तत्र विपरीतःस्यात्स दाप्यः प्रथमं दमम्  .१८८

 

समूहकार्यप्रहितो यल्लभेततदर्पयेत्

एकादशगुणं दाप्योयद्यसौ नार्पयेत्स्वयम्  .१९०

 

[१६. वेतनादानप्रकरणम्]

 

गृहीतवेतनः कर्मत्यजन् द्विगुणमावहेत्

अगृहीते समंदाप्यो भृत्यै रक्ष्य उपस्करः  .१९३

 

दाप्यस्तु दशमंभागं वाणिज्यपशुसस्यतः 

अनिश्चित्य भृतिंयस्तु कारयेत्स महीक्षिता  .१९४

 

देशं कालं योऽतीयाल्लाभं कुर्याच्चयोऽन्यथा 

तत्र स्यात्स्वामिनश्छन्दोऽधिकंदेयं कृतेऽधिके  .१९५

 

प्रक्रान्ते सप्तमंभागं चतुर्थं पथि संत्यजन् 

भृतिमर्धपथे सर्वांप्रदाप्यस्त्याजकोऽपि   .१९८

 

[१७. द्यूतसमाह्वयप्रकरणम्]

 

ग्लहे शतिकवृद्धेस्तुसभिकः पञ्चकं शतम् 

गृह्णीयाद्धूर्तकितवादितराद्दशकं शतम्  .१९९

 

द्रष्टारो व्यवहाराणांसाक्षिणश्च एव हि 

राज्ञा सचिह्नंनिर्वास्याः कूटाक्षोपधिदेविनः  .२०२

 

[१८. वाक्पारुष्यप्रकरणम्]

सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् 

क्षेपं करोतिचेद्दण्ड्यः पणानर्धत्रयोदशान्  .२०४

 

अभिगन्तास्मि भगिनींमातरं वा तवेति  

शपन्तं दापयेद्राजापञ्चविंशतिकं दमम्  .२०५

 

बाहुग्रीवानेत्रसक्थि- विनाशे वाचिके दमः 

सत्यस्तदर्धिकः पाद- नासाकर्णकरादिषु  .२०८

 

[१९. दण्डपारुष्यप्रकरणम्]

 

भस्मपङ्करजःस्पर्शे दण्डोदशपणः स्मृतः 

अमेध्यपार्ष्णिनिष्ठ्यूत- स्पर्शने द्विगुणस्ततः  .२१३

समेष्वेवं परस्त्रीषुद्विगुणस्तूत्तमेषु  

हीनेष्वर्धदमो मोह- मदादिभिरदण्डनम्  .२१४

 

 

अभिघाते तथाछेदे भेदे कुड्यावपातने 

पणान् दाप्यःपञ्च दश विंशतिं तद्व्ययं तथा  .२२३

 

दुःखोत्पादि गृहेद्रव्यं क्षिपन् प्राणहरं तथा 

षोडशाद्यः पणान्दाप्यो द्वितीयो मध्यमं दमम्  .२२४

 

लिङ्गस्य छेदनेमृत्यौ मध्यमो मूल्यमेव  

महापशूनामेतेषु स्थानेषुद्विगुणो दमः  .२२६

 

प्ररोहिशाखिनां शाखा- स्कन्धसर्वविदारणे 

उपजीव्यद्रुमाणां विंशतेर्द्विगुणो दमः  .२२७

 

[२०. साहसप्रकरणम्]

 

सामान्यद्रव्यप्रसभ- हरणात्साहसं स्मृतम् 

तन्मूल्याद्द्विगुणो दण्डोनिह्नवे तु चतुर्गुणः  .२३०

 

यः साहसंकारयति दाप्यो द्विगुणं दमम् 

यश्चैवमुक्त्वाहं दाताकारयेत्स चतुर्गुणम्  .२३१

 

वसानस्त्रीन् पणान्दण्ड्यो नेजकस्तु परांशुकम् 

विक्रयावक्रयाधानयाचितेषु पणान्दश  .२३८

पितापुत्रविरोधे तुसाक्षिणां त्रिपणो दमः 

अन्तरे तयोर्यः स्यात्तस्याप्यष्टगुणो दमः  .२३९

 

मानेन तुलयावापि योऽंशमष्टमकं हरेत्

दण्डं दाप्यो द्विशतं वृद्धौ हानौ कल्पितम्  .२४४

 

भेषजस्नेहलवण- गन्धधान्यगुडादिषु 

पण्येषु प्रक्षिपन्हीनं पणान् दाप्यस्तु षोडश  .२४५

 

मृच्चर्ममणिसूत्रायः- काष्ठवल्कलवाससाम् 

अजातौ जातिकरणेविक्रेयाष्टगुणो दमः  .२४६

 

[२१. विक्रीयासंप्रदानप्रकरणम्]

 

क्षयं वृद्धिं वणिजा पण्यानामविजानता 

क्रीत्वा नानुशयःकार्यः कुर्वन् षड्भागदण्डभाक् .२५८

 

[२२ संभूयसमुत्थानप्रकरणम्]

 

अर्घप्रक्षेपणाद्विंशं भागंशुल्कं नृपो हरेत्

व्यासिद्धं राजयोग्यं विक्रीतं राजगामि तत् .२६१

 

मिथ्या वदन्परीमाणं शुल्कस्थानादपासरन् 

दाप्यस्त्वष्टगुणं यश्चसव्याजक्रयविक्रयी  .२६२

 

[२३ स्तेयप्रकरणम्]

 

शस्त्रावपाते गर्भस्यपातने चोत्तमो दमः 

उत्तमो वाधमोवापि पुरुषस्त्रीप्रमापणे  .२७७

 

[२४ स्त्रीसंग्रहणप्रकरणम्]

 

स्त्री निषेधेशतं दद्याद्द्विशतं तु दमं पुमान् 

प्रतिषेधे तयोर्दण्डोयथा संग्रहणे तथा  .२८५

 

सजातावुत्तमो दण्डआनुलोम्ये तु मध्यमः 

प्रातिलोम्ये वधःपुंसो नार्याः कर्णादिकर्तनम्  .२८६

 

अलंकृतां हरन्कन्यामुत्तमं ह्यन्यथाधमम् 

दण्डं दद्यात्सवर्णासुप्रातिलोम्ये वधः स्मृतः  .२८७

 

शतं स्त्रीदूषणेदद्याद्द्वे तु मिथ्याभिशंसने 

पशून् गच्छन्शतं दाप्यो हीनां स्त्रीं गां मध्यमम्  .२८९

 

[२५ प्रकीर्णकप्रकरणम्]

 

ऊनं वाभ्यधिकंवापि लिखेद्यो राजशासनम् 

पारदारिकचौरं वामुञ्चतो दण्ड उत्तमः  .२९५

 

अभक्ष्येण द्विजंदूष्यो दण्ड्य उत्तमसाहसम् 

मध्यमं क्षत्रियंवैश्यं प्रथमं शूद्रमर्धिकम्  .२९६

 


No comments:

Post a Comment

बौद्धदर्शन (सर्वदर्शनसङ्ग्रह)

  ·         व्याप्ति का ज्ञान तादात्म्य और उत्पत्ति से होता है। ·         तादात्म्य तथा उत्पत्ति अविनाभाव के दो रूप हैं। ·         ताद...