याज्ञवल्क्य स्मृति
१. याज्ञवल्क्य स्मृति में लगभग १००० श्लोक है।
२. याज्ञवल्क्य स्मृति में तीन अध्याय है- आचाराध्याय-३६७, व्यवहाराध्याय-३०७-तथा प्रायश्चित अध्याय-३३५
३. श्लोकसंख्या- आचाराध्याय-३६७,
व्यवहाराध्याय-३०७-
प्रायश्चित अध्याय-३३५
४. प्रकरण- आचाराध्याय- १३
व्यवहाराध्याय- २५
प्रायश्चित अध्याय-५
५. ऋण ४ प्रकार के होते हैं- व्यवहार, धर्म, नीति, देशाचार
६. दिव्य प्रमाण ५ प्रकार- तुला, अग्नि, जल, विष, कोश
७. पुत्र के १२ प्रकार- औरस, पुत्रिकासुत, गूढज, कानीन, पौनर्भव, दत्तकपुत्र, विक्रीत, दत्तात्मा, सहोढज, कृत्रिम, क्षेत्रज, अपविद्धपुत्र
८. सीमा के ५ प्रकार- ध्वजिनी, मत्स्यिनी, नैधानी, भयवर्जिताराजशासननीता
९. सीमा स्थान- जनपदसीमा, ग्राम सीमा, क्षेत्रसीमा, गृहसीमा
१०. दण्डव्यवस्था-
| पशु | फसल खाने पर | फसल खाकर बैठ जाने पर | बच्चों के साथ फसल नष्ट करने पर |
| गधा, ऊँट, भैंस | ८ माष | १६ माष | ३२ माष |
| गाय | ४ माष | ८ माष | १६ माष |
| बकरी | २ माष | ४ माष | ८ माष |
११.
[१. साधारणव्यवहारमातृकाप्रकरणम्]
सभ्याः पृथक्पृथग्दण्ड्याविवादाद्द्विगुणं दमम् ॥ २.४ ॥
चतुष्पाद्व्यवहारोऽयं विवादेषूपदर्शितः ॥ २.८ ॥
व्यवहार के चतुष्पाद है। १.भाषापाद, २.उत्तरपाद, ३. क्रियापाद, ४.सिद्धिपाद
[२. असाधारणव्यवहारमातृकाप्रकरणम्]
मिथ्याभियोगी द्विगुणमभियोगाद्धनंवहेत् ॥ २.११ ॥
स्मृत्योर्विरोधे न्यायस्तुबलवान् व्यवहारतः ।
अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमितिस्थितिः ॥ २.२१ ॥
प्रमाणं लिखितंभुक्तिः साक्षिणश्चेति कीर्तितम् ।
एषामन्यतमाभावे दिव्यान्यतममुच्यते ॥ २.२२ ॥
सर्वेष्वर्थविवादेषु बलवत्युत्तराक्रिया ।
आधौ प्रतिग्रहेक्रीते पूर्वा तु बलवत्तरा ॥ २.२३ ॥
पश्यतोऽब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी ।
परेण भुज्यमानायाधनस्य दशवार्षिकी ॥ २.२४ ॥
आगमोऽभ्यधिको भोगाद्विनापूर्वक्रमागतात् ।
आगमेऽपि बलंनैव भुक्तिः स्तोकापि यत्र नो ॥ २.२७ ॥
आगमस्तु कृतोयेन सोऽभियुक्तस्तमुद्धरेत् ।
न तत्सुतस्तत्सुतोवा भुक्तिस्तत्र गरीयसी ॥ २.२८ ॥
नृपेणाधिकृताः पूगाःश्रेणयोऽथ कुलानि च ।
पूर्वं पूर्वंगुरु ज्ञेयं व्यवहारविधौ नृणाम् ॥ २.३० ॥
मत्तोन्मत्तार्तव्यसनि- बालभीतादियोजितः ।
असंबद्धकृतश्चैव व्यवहारोन सिध्यति ॥ २.३२ ॥
राजा लब्ध्वानिधिं दद्याद्द्विजेभ्योऽर्धं द्विजःपुनः ।
विद्वानशेषमादद्यात्स सर्वस्यप्रभुर्यतः ॥ २.३४ ॥
इतरेण निधौलब्धे राजा षष्ठांशमाहरेत्।
अनिवेदितविज्ञातो दाप्यस्तंदण्डमेव च ॥ २.३५ ॥
[३. ऋणादानप्रकरणम्]
अशीतिभागो वृद्धिःस्यान्मासि मासि सबन्धके ।
वर्णक्रमाच्छतं द्वित्रि- चतुष्पञ्चकमन्यथा ॥ २.३७ ॥
कान्तारगास्तु दशकंसामुद्रा विंशकं शतम् ।
संततिस्तु पशुस्त्रीणांरसस्याष्टगुणा परा ।
वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणापरा ॥ २.३९ ॥
राज्ञाधमर्णिको दाप्यःसाधिताद्दशकं शतम् ।
पञ्चकं चशतं दाप्यः प्राप्तार्थोह्युत्तमर्णिकः ॥ २.४२ ॥
संततिः स्त्रीपशुष्वेवधान्यं त्रिगुणमेव च ।
वस्त्रं चतुर्गुणंप्रोक्तं रसश्चाष्टगुणस्तथा ॥ २.५७ ॥
[५. साक्षिप्रकरणम्]
तपस्विनो दानशीलाःकुलीनाः सत्यवादिनः ।
धर्मप्रधाना ऋजवःपुत्रवन्तो धनान्विताः ॥ २.६८ ॥
त्र्यवराः साक्षिणोज्ञेयाः श्रौतस्मार्तक्रियापराः ।
यथाजाति यथावर्णंसर्वे सर्वेषु वा स्मृताः ॥ २.६९ ॥
उभयानुमतः साक्षीभवत्येकोऽपि धर्मवित् ।
सर्वः साक्षीसंग्रहणे चौर्यपारुष्यसाहसे ॥ २.७२ ॥
अब्रुवन् हिनरः साक्ष्यमृणं सदशबन्धकम् ।
राज्ञा सर्वंप्रदाप्यः स्यात्षट्चत्वारिंशकेऽहनि ॥ २.७६ ॥
पृथक्पृथग्दण्डनीयाः कूटकृत्साक्षिणस्तथा ।
विवादाद्द्विगुणं दण्डंविवास्यो ब्राह्मणः स्मृतः ॥ २.८१
यः साक्ष्यंश्रावितोऽन्येभ्यो निह्नुते तत्तमोवृतः ।
स दाप्योऽष्टगुणंदण्डं ब्राह्मणं तु विवासयेत् ॥ २.८२ ॥
[६. लेख्यप्रकरणम्]
यः कश्चिदर्थोनिष्णातः स्वरुच्या तु परस्परम् ।
लेख्यं तुसाक्षिमत्कार्यं तस्मिन् धनिकपूर्वकम् ॥ २.८४ ॥
समामासतदर्धाहर्नामजातिस्वगोत्रकैः ।
सब्रह्मचारिकात्मीय- पितृनामादिचिह्नितम् ॥ २.८५ ॥
समाप्तेऽर्थे ऋणीनाम स्वहस्तेन निवेशयेत्।
मतं मेऽमुकपुत्रस्ययदत्रोपरि लेखितम् ॥ २.८६ ॥
साक्षिणश्च स्वहस्तेनपितृनामकपूर्वकम् ।
अत्राहममुकः साक्षीलिखेयुरिति ते समाः ॥ २.८७ ॥
उभयाभ्यर्थितेनैतन्मया ह्यमुकसूनुना ।
लिखितं ह्यमुकेनेतिलेखकोऽन्ते ततो लिखेत् ॥ २.८८ ॥
विनापि साक्षिभिर्लेख्यंस्वहस्तलिखितं तु यत् ।
तत्प्रमाणं स्मृतंलेख्यं बलोपधिकृतादृते ॥ २.८९ ॥
ऋणं लेख्यकृतंदेयं पुरुषैस्त्रिभिरेव तु ।
आधिस्तु भुज्यतेतावद्यावत्तन्न प्रदीयते ॥ २.९० ॥
[७. दिव्यप्रकरणम्]
तुला स्त्रीबालवृद्धान्ध- पङ्गुब्राह्मणरोगिणाम् ।
अग्निर्जलं वाशूद्रस्य यवाः सप्त विषस्य वा ॥ २.९८ ॥
अर्वाक्चतुर्दशादह्नो यस्यनो राजदैविकम् ।
व्यसनं जायतेघोरं स शुद्धः स्यान्न संशयः ॥ २.११३ ॥
[१०. स्वामिपालविवादप्रकरणम्]
माषानष्टौ तुमहिषी सस्यघातस्य कारिणी ।
दण्डनीया तदर्धंतु गौस्तदर्धमजाविकम् ॥ २.१५९ ॥
भक्षयित्वोपविष्टानां यथोक्ताद्द्विगुणोदमः ।
सममेषां विवीतेऽपिखरोष्ट्रं महिषीसमम् ॥ २.१६० ॥
पालदोषविनाशे तुपाले दण्डो विधीयते ।
अर्धत्रयोदशपणः स्वामिनोद्रव्यमेव च ॥ २.१६५ ॥
[११. अस्वामिविक्रयप्रकरणम्]
हृतं प्रनष्टंयो द्रव्यं परहस्तादवाप्नुयात्।
अनिवेद्य नृपेदण्ड्यः स तु षण्णवतिं पणान् ॥ २.१७२ ॥
पणानेकशफे दद्याच्चतुरःपञ्च मानुषे ।
महिषोष्ट्रगवां द्वौद्वौ पादं पादमजाविके ॥ २.१७४ ॥
[१२. दत्ताप्रदानिकप्रकरणम्]
स्वं कुटुम्बाविरोधेनदेयं दारसुतादृते ।
नान्वये सतिसर्वस्वं यच्चान्यस्मै प्रतिश्रुतम् ॥ २.१७५ ॥
[१३. क्रीतानुशयप्रकरणम्]
अग्नौ सुवर्णमक्षीणंरजते द्विपलं शते ।
अष्टौ त्रपुणिसीसे च ताम्रे पञ्च दशायसि ॥ २.१७८ ॥
शते दशपलावृद्धिरौर्णे कार्पाससौत्रिके ।
मध्ये पञ्चपलावृद्धिः सूक्ष्मे तु त्रिपला मता ॥ २.१७९ ॥
कार्मिके रोमबद्धेच त्रिंशद्भागः क्षयो मतः ।
न क्षयोन च वृद्धिश्च कौशेये वाल्कलेषु च ॥ २.१८० ॥
[१४. अभ्युपेत्याशुश्रूषाप्रकरणम्]
प्रव्रज्यावसितो राज्ञोदास आमरणान्तिकम् ।
वर्णानामानुलोम्येन दास्यंन प्रतिलोमतः ॥ २.१८३ ॥
[१५. संविद्व्यतिक्रमप्रकरणम्]
यस्तत्र विपरीतःस्यात्स दाप्यः प्रथमं दमम् ॥ २.१८८ ॥
समूहकार्यप्रहितो यल्लभेततदर्पयेत् ।
एकादशगुणं दाप्योयद्यसौ नार्पयेत्स्वयम् ॥ २.१९० ॥
[१६. वेतनादानप्रकरणम्]
गृहीतवेतनः कर्मत्यजन् द्विगुणमावहेत् ।
अगृहीते समंदाप्यो भृत्यै रक्ष्य उपस्करः ॥ २.१९३ ॥
दाप्यस्तु दशमंभागं वाणिज्यपशुसस्यतः ।
अनिश्चित्य भृतिंयस्तु कारयेत्स महीक्षिता ॥ २.१९४ ॥
देशं कालंच योऽतीयाल्लाभं कुर्याच्चयोऽन्यथा ।
तत्र स्यात्स्वामिनश्छन्दोऽधिकंदेयं कृतेऽधिके ॥ २.१९५ ॥
प्रक्रान्ते सप्तमंभागं चतुर्थं पथि संत्यजन् ।
भृतिमर्धपथे सर्वांप्रदाप्यस्त्याजकोऽपि च ॥ २.१९८ ॥
[१७. द्यूतसमाह्वयप्रकरणम्]
ग्लहे शतिकवृद्धेस्तुसभिकः पञ्चकं शतम् ।
गृह्णीयाद्धूर्तकितवादितराद्दशकं शतम् ॥ २.१९९ ॥
द्रष्टारो व्यवहाराणांसाक्षिणश्च त एव हि ।
राज्ञा सचिह्नंनिर्वास्याः कूटाक्षोपधिदेविनः ॥ २.२०२ ॥
[१८. वाक्पारुष्यप्रकरणम्]
सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् ।
क्षेपं करोतिचेद्दण्ड्यः पणानर्धत्रयोदशान् ॥ २.२०४ ॥
अभिगन्तास्मि भगिनींमातरं वा तवेति ह ।
शपन्तं दापयेद्राजापञ्चविंशतिकं दमम् ॥ २.२०५ ॥
बाहुग्रीवानेत्रसक्थि- विनाशे वाचिके दमः ।
सत्यस्तदर्धिकः पाद- नासाकर्णकरादिषु ॥ २.२०८ ॥
[१९. दण्डपारुष्यप्रकरणम्]
भस्मपङ्करजःस्पर्शे दण्डोदशपणः स्मृतः ।
अमेध्यपार्ष्णिनिष्ठ्यूत- स्पर्शने द्विगुणस्ततः ॥ २.२१३
समेष्वेवं परस्त्रीषुद्विगुणस्तूत्तमेषु च ।
हीनेष्वर्धदमो मोह- मदादिभिरदण्डनम् ॥ २.२१४ ॥
अभिघाते तथाछेदे भेदे कुड्यावपातने ।
पणान् दाप्यःपञ्च दश विंशतिं तद्व्ययं तथा ॥ २.२२३ ॥
दुःखोत्पादि गृहेद्रव्यं क्षिपन् प्राणहरं तथा ।
षोडशाद्यः पणान्दाप्यो द्वितीयो मध्यमं दमम् ॥ २.२२४ ॥
लिङ्गस्य छेदनेमृत्यौ मध्यमो मूल्यमेव च ।
महापशूनामेतेषु स्थानेषुद्विगुणो दमः ॥ २.२२६ ॥
प्ररोहिशाखिनां शाखा- स्कन्धसर्वविदारणे ।
उपजीव्यद्रुमाणां चविंशतेर्द्विगुणो दमः ॥ २.२२७ ॥
[२०. साहसप्रकरणम्]
सामान्यद्रव्यप्रसभ- हरणात्साहसं स्मृतम् ।
तन्मूल्याद्द्विगुणो दण्डोनिह्नवे तु चतुर्गुणः ॥ २.२३० ॥
यः साहसंकारयति स दाप्यो द्विगुणं दमम् ।
यश्चैवमुक्त्वाहं दाताकारयेत्स चतुर्गुणम् ॥ २.२३१ ॥
वसानस्त्रीन् पणान्दण्ड्यो नेजकस्तु परांशुकम् ।
विक्रयावक्रयाधानयाचितेषु पणान्दश ॥ २.२३८ ॥
पितापुत्रविरोधे तुसाक्षिणां त्रिपणो दमः ।
अन्तरे चतयोर्यः स्यात्तस्याप्यष्टगुणो दमः ॥ २.२३९ ॥
मानेन तुलयावापि योऽंशमष्टमकं हरेत् ।
दण्डं सदाप्यो द्विशतं वृद्धौ हानौ च कल्पितम् ॥ २.२४४ ॥
भेषजस्नेहलवण- गन्धधान्यगुडादिषु ।
पण्येषु प्रक्षिपन्हीनं पणान् दाप्यस्तु षोडश ॥ २.२४५
मृच्चर्ममणिसूत्रायः- काष्ठवल्कलवाससाम् ।
अजातौ जातिकरणेविक्रेयाष्टगुणो दमः ॥ २.२४६ ॥
[२१. विक्रीयासंप्रदानप्रकरणम्]
क्षयं वृद्धिंच वणिजा पण्यानामविजानता ।
क्रीत्वा नानुशयःकार्यः कुर्वन् षड्भागदण्डभाक्॥ २.२५८ ॥
[२२ संभूयसमुत्थानप्रकरणम्]
अर्घप्रक्षेपणाद्विंशं भागंशुल्कं नृपो हरेत् ।
व्यासिद्धं राजयोग्यंच विक्रीतं राजगामि तत् ॥ २.२६१
मिथ्या वदन्परीमाणं शुल्कस्थानादपासरन् ।
दाप्यस्त्वष्टगुणं यश्चसव्याजक्रयविक्रयी ॥ २.२६२ ॥
[२३ स्तेयप्रकरणम्]
शस्त्रावपाते गर्भस्यपातने चोत्तमो दमः ।
उत्तमो वाधमोवापि पुरुषस्त्रीप्रमापणे ॥ २.२७७ ॥
[२४ स्त्रीसंग्रहणप्रकरणम्]
स्त्री निषेधेशतं दद्याद्द्विशतं तु दमं पुमान् ।
प्रतिषेधे तयोर्दण्डोयथा संग्रहणे तथा ॥ २.२८५ ॥
सजातावुत्तमो दण्डआनुलोम्ये तु मध्यमः ।
प्रातिलोम्ये वधःपुंसो नार्याः कर्णादिकर्तनम् ॥ २.२८६
अलंकृतां हरन्कन्यामुत्तमं ह्यन्यथाधमम् ।
दण्डं दद्यात्सवर्णासुप्रातिलोम्ये वधः स्मृतः ॥ २.२८७
शतं स्त्रीदूषणेदद्याद्द्वे तु मिथ्याभिशंसने ।
पशून् गच्छन्शतं दाप्यो हीनां स्त्रीं गां च मध्यमम् ॥ २.२८९ ॥
[२५ प्रकीर्णकप्रकरणम्]
ऊनं वाभ्यधिकंवापि लिखेद्यो राजशासनम् ।
पारदारिकचौरं वामुञ्चतो दण्ड उत्तमः ॥ २.२९५ ॥
अभक्ष्येण द्विजंदूष्यो दण्ड्य उत्तमसाहसम् ।
मध्यमं क्षत्रियंवैश्यं प्रथमं शूद्रमर्धिकम् ॥ २.२९६ ॥
No comments:
Post a Comment