Friday, 17 July 2020

व्युत्पत्तियाँ


 

1.   आचार्य-आचार्यः आचारं ग्राहयति, आचिनोत्यर्थान्, आचिनोति बुद्धिमिति वा।

2.   वीरः-वीरयति अमित्रान्। वेत्तेर्वा स्याद्गतिकर्मणः, वीरयतेर्वा।

3.   ह्रदः-ह्रदो ह्रादते शब्दकर्मणः। ह्रादतेर्वा स्यात्, शीतिभावः, कर्मणः।

4.   गौ- गौरितिपृथिव्या नामधेयम्। यद् दूरङ्गताभवति। यच्चास्यां भूतानि गच्छन्ति। गातेर्वौकारो नामकरणः। अर्थात् यदियं दूरम् अछवानं प्रति गता भवति, ह्यस्याः अन्त उपलभ्यते। यस्मात् अस्यां भूतानि गच्छन्ति आधारभूतायाम्। गातेर्वा गाङ्गतौ, इत्यस्य धातोः ओकारो नामकरणः प्रत्ययः।अथ पशुनामेह भवत्येतस्मादेव

5.   समुद्रः-समुद् द्रवन्त्यस्मादपः, समभिद्रवन्त्येनमापः, सम्मोदन्तेऽस्मिन् भूतानि, समुदको भवति, समुनत्तीति वा।

6.   वृत्रः-  वृत्रो वृणोतेर्वा, वर्ततेर्वा वर्धर्तेर्वा। यदवृणोत् तद् वृत्रस्य वृत्रत्वम्। यदवर्त्तत तद् वृत्रस्य वृत्रत्वम्। यदवर्धत तद् वृत्रस्य वृत्रत्वम्।

7.   आदित्यः- आदत्ते रसान्, आदत्ते भासं ज्योतिषाम्, आदीप्तो भासेति वा अदीतेः पुत्रः इति वा। एवमन्यासामपि देवतानामादित्य-प्रवादाः स्तुतयो भवन्ति।

8.   उषस्-उच्छतीति सत्या रात्रेरपरः कालः। उछी विवासे विवासयति हीयं तमांसि।

9.   मेघः- मेहतीति सिंचत्यसौ मेघः।

10.               वाक्-वक्तीति वाक्। वचेः उच्यतेऽनया इति वाक्।

11.               उदक्- उनत्तीति उदक्। तद्धि यत्र गच्छति, तत्र उनत्ति क्लेदयति।

12.               नदी-नदना इमा भवन्ति शब्दवत्यः।

13.               अश्वः- अश्नुतेऽध्वानम् महाशनो भवतीति वा।

14.               अग्निः-अग्रणि भवति। अग्रं यज्ञेषु प्रणीयते। अङ्गं नयति सन्नमानः अक्नोपनो भवति इति स्थौलाष्ठीवि। क्नोपयति स्नेहयति।

15.               जातवेदस्- जातानि वेद। जातानि वैनं विदुः जाते जाते विद्यते इति वा। जातवित्तो वा। जातधनः। जातविधो वा जातप्रज्ञानः। यज्जातः पशूनविन्दत इति तज्जातवेदसो जातवेदस्वम्।

16.               वैश्वानरः- विश्वान् नरान् नयति। विश्वः एनं नरा नयन्तीति वा अपि वा वैश्वानरः एव स्यात्।

17.               निघण्टु- ते निगन्तवः एव सन्तो निगममान्निघण्टवः उच्यन्ते इति औपमन्यवः। अपि वाऽह्ननादेव स्युः, समाहता भवन्ति। यद्वा समाहृता भवन्ति।

 


No comments:

Post a Comment

बौद्धदर्शन (सर्वदर्शनसङ्ग्रह)

  ·         व्याप्ति का ज्ञान तादात्म्य और उत्पत्ति से होता है। ·         तादात्म्य तथा उत्पत्ति अविनाभाव के दो रूप हैं। ·         ताद...